Study Ancients
Verse 109
Anuṣṭubh

⦿ तृनजा विंशतिश् चीन-

शय्याश् चीनांशुकानि तु

विंशतिः पञ्च सिख्तन् तु

भारो दश तुला अपि

Verse 110
Anuṣṭubh

⦿ पञ्च प्रस्थास् त्रयो द्रोणा

मरिचानां द्वि-खारिके

चन्दनस्य तुलैका द्वा-

दश कट्ट्यस् त्रि-पादकाः

Verse 111
Anuṣṭubh

⦿ श्रीवासस्य तुलास् त्रिंशत्

कट्ट्यस् सार्द्धं त्रयो-दश

कृष्णा द्वा-दश कट्ट्यस् तु

तुलाः पञ्च-दशापि च

Verse 112
Anuṣṭubh

⦿ कर्प्पूरस्य पुनर् द्वे च

कट्टिके षट् पणा अपि

तरुष्कं द्वा-दश-पणं

कट्ट्य् एका च नखं पुनः

Verse 113
Anuṣṭubh

⦿ पणाश् च दश कट्ट्यौ तु

हिङ्गुलं पण-पञ्चकम्·

स्वर्णाङ्गुलीय-गोभिक्षाम्

अत्र चूर्ण-समुद्गकाः

Verse 114
Anuṣṭubh

⦿ त्रिंशत् पणा अथ त्रिंशत्-

पणानि रजतान्य् अपि

कदाभादीनि ताम्राणि

तुलास् सप्त द्वि-कट्टिके

Verse 115
Anuṣṭubh

⦿ त्रपूणि द्वि-तुले चीन-

समुद्ग-शत-पञ्चकम्·

खार्य्यो द्वा-त्रिंशतिर् द्रोण-

त्रयञ् च लवणस्य तु

Verse 116
Anuṣṭubh

⦿ कृष्ण-त्रपु पुनस् त्रिंशत्

तुला एकस् तुरङ्गमः

हिरण्य-भूषणा धेनुः

कपिला वत्स-संयुता

Verse 117
Anuṣṭubh

⦿ आरोग्यशाला विषये

विषये द्वे शतन् तथा

तत्र सप्त शतान्य् अष्टा-

नवतिश् चार्प्पितास् सुराः

Verse 118
Anuṣṭubh

⦿ देवतावासि-रोग्य्-अर्थं

प्रत्यव्दं व्रीहि-खारिकाः

अयुतन् नियुतं सप्त

सहस्राणि शत-द्वयम्·

Verse 119
Anuṣṭubh

⦿ ग्रामा अष्ट शतान्य् अष्टा-

त्रिंशत् स्त्री-पुरुषाः पुनः

चत्वारिंशत् सहस्रं षट्-

छता अष्टायुता अपि

Verse 120
Anuṣṭubh

⦿ राजकोष्ठाद् इदं ग्राह्यं

रै-गोभिक्षाङ्गुलीयकाः

पणाष् षोडश पादौ द्वौ

त्रि-माषाश् चानु-वत्सरम्·

Verse 121
Anuṣṭubh

⦿ देवार्हादीनि वासांसि

षट् छतानि सहस्रकम्·

चतुर्-दश पणाः कट्ट्यष्

षट् तुलैका च चन्दनम्·

Verse 122
Anuṣṭubh

⦿ श्रीवासानां तुलास् सप्त

कट्ट्यो ऽष्टौ च चतुष्-पणाः

कृष्णायाष् षट् तुला एका-

दश कट्ट्यः पणा दश

Verse 123
Anuṣṭubh

⦿ षट् तुलास् त्रि-पणास् सिक्थं

मधुनो घटिका पुनः

एकादशोत्तर-शतं

प्रस्था द्वा-दश सार्द्धकाः

Verse 124
Anuṣṭubh

⦿ घटिका द्वा-दश गुडाः

प्रस्थैर् द्वादशभिस् सह

दश घट्यो नव प्रस्था

घृतानि कुदुव-द्वयम्·

Verse 125
Anuṣṭubh

⦿ खारिका विंशतिर् द्वे च

द्रोणश् चैकस् तिला अपि

त्रयो-दश तुला द्वे च

कट्टिके पिप्पली तथा

Verse 126
Anuṣṭubh

⦿ यवानी-पिप्पली-रेणु-

पुन्नागा गणिता इमे

एकैकशस् सप्त पाणास्

त्रयोदश च कट्टिकाः

Verse 127
Anuṣṭubh

⦿ चतुश्शतञ् जाती-फलं

त्रि-सहस्रं द्वयन् तथा

क्षार-जीर्णे समे कट्ट्यष्

षट् पणाश् च चतुर्-दश

Verse 128
Anuṣṭubh

⦿ तिस्रः कट्ट्यो द्वि-कर्प्पूरौ

पणः पादौ त्रि-माषकाः

शर्क्कराणां तुले कट्ट्यस्

त्रयो-दश पणाष्टकम्·

Verse 129
Anuṣṭubh

⦿ सप्ततिस् तु दङ्दङ्साख्यास्

सहस्रे षट् छतानि च

शत-पुष्पं तुला कट्ट्यष्

षड् द्वा-दश पणा अपि

Verse 130
Anuṣṭubh

⦿ धान्यस्य द्वादश तुलास्

तथा षोडश कट्टिकाः

चतुर्-दश पणाश् चाथ

कर्क्कोल-मरिचे समे

Verse 131
Anuṣṭubh

⦿ कट्ट्यस् त्रयो-दश तथा

पणास् सप्तैलिका अपि

एका-दश तुलाः कट्ट्यस्

तिस्रस् सप्त-पणाधिकाः

Verse 132
Anuṣṭubh

⦿ एका-दश तुला कट्ट्यष्

षोडशापि प्रचीवलम्·

सर्षपाणि पुनर् द्रोणः

प्रस्थेर् द्वा-दशभिस् सह

Verse 133
Anuṣṭubh

⦿ सहस्रम् अयुते पथ्या-

त्वचौ तु त्रि-शते समे

षष्टिश् च दार्वी-खण्डानि

त्व् अष्टाषष्टिस् सहस्रकम्·

Verse 134
Anuṣṭubh

⦿ कन्दङ्हर्लाय्जन्स्यङ्देव-

दारुच्छव्यं तुले समम्·

देवमित्रन् तुला कट्ट्यस्

त्रयो-दश पणाश् च षट्·

Verse 135
Anuṣṭubh

⦿ भैषज्याम्लानि घट्य् एका

चत्वारिंशच् च संख्यया

सार्द्धश् चैकादश प्रस्थाश्

चर्म्माण्डान्य् अष्ट खारिकाः

Verse 136
Anuṣṭubh

⦿ कल्कानि दश-मूलानां

लसुनानाञ् च संख्यया

अयुतानि च चत्वारि

सहस्राण्य् अष्ट चैकशः

Verse 137
Anuṣṭubh

⦿ अर्शश्शमन-भैषज्य-

समुद्गानां सहस्रकम्·

शतानि नव षष्टिश् च

हिङ्गूनान् नव कट्टिकाः

Verse 138
Anuṣṭubh

⦿ सप्त रम्भादि-तैलानां

प्रस्था घट्यस् त्रयो-दश

शतं द्वा-दश घट्यश् च

प्रस्थाश् चाष्टौ निदिग्धिकाः

Verse 139
Anuṣṭubh

⦿ शुन्थ्यस् सप्त पणाः कट्ट्यस्

त्रयो-दश तुला-त्रयम्·

कोष्ठानि त्रि-पणाः पादौ

द्वौ चैका-दश कट्टिकाः

Verse 140
Anuṣṭubh

⦿ पलन्दूनां पुनः खार्य्यस्

सप्त द्रोण-द्वयन् तथा

लसुनानां पुनः खार्य्यस्

तिस्रो द्रोण-द्वयाधिकाः

Verse 141
Vasantatilakā

⦿ कुर्वन्न् इमानि सुकृतान्य् अतिमात्र-मातृ-

भक्त्या व्यधात् प्रणिधिम् एवम् असौ क्षितीन्द्रः

एभिश् शुभैर् मम कृतैर् भविनां भवाव्धेर्

उत्तारणाय भजतां जननी जिनत्वम्·

Verse 142
Vasantatilakā

⦿ धर्म्म-स्थितिं परकृतां विकृतान् दुरात्म-

भग्नाञ् च सो ऽवनिपतिस् स्थिति-रक्षणार्थि

दृष्ट्वाववन्ध्य च दृढं पुनर् एवम् आह

रक्षिष्यतस् स्थितिम् अनागत-कम्वुजेन्द्रान्·

Verse 143
Vasantatilakā

⦿ मातुर् निरर्घम् उपकारम् अवेक्ष्य भक्त्या

जह्युर् निजायुर् अपि मातृ-कृते कृतज्ञाः

तद् भूधरा विदितवान् अपि मत्-प्रतिष्ठा-

रक्षोत्सुकान् स्वयम्-अतृप्ततयार्थये वः

Verse 144
Vasantatilakā

⦿ तां स्थेयसीम् अपि विधातुम् उप-प्लवेभ्यो

रक्ष्या भवद्भिर् इह देव-भुजिष्यकस्थे

काष्ठोपल-प्रभृति किञ् च न देव-कार्य्य-

स्याङ्शञ् च हारक-विकारकराधमेभ्यः

Verse 145
Anuṣṭubh

⦿ श्रीसूर्य्यकुमाराख्यश् श्रीजयवर्म्मावनीभुजो जातः

राजकुमारो ऽग्रण्यान् देव्याम् अकरोत् प्रशस्तम् इदम्·