Study Ancients
Verse 73
Anuṣṭubh

⦿ कंसस्य तु सहस्रे द्वे

भारास् त्रीणि शतानि च

नव-त्रिंशच् च गणितास्

तुलास् सप्त-दशापि च

Verse 74
Anuṣṭubh

⦿ सुवर्ण-पटलं सार्द्धं

चतुर्-विंशति-भारकम्·

लोहस्यैका तुला भाराष्

षट्-छता दश पञ्च च

Verse 75
Anuṣṭubh

⦿ कढ्ढ्यो दश तुलास् सप्त

भाराः पञ्च-दश त्रपु

सीसञ् चतुश्-शता भाराः

सप्त-त्रिंशत् तुलार्द्धकम्·

Verse 76
Anuṣṭubh

⦿ सप्त-षष्टिः पुनश् चीन-

पटा नव शतानि च

तथा द्वा-दश कौशेय-

शय्या पञ्च शतानि च

Verse 77
Anuṣṭubh

⦿ शतानि पञ्चातपत्र-

प्रमुखा विंशतिस् त्रयः

नव-त्रिंशच् च वलभि-

प्रासादाः पिण्डिताः पुनः

Verse 78
Anuṣṭubh

⦿ शतानि पञ्च षट्-षष्टिः

खण्डान्य् उपल-वेश्मनाम्·

इष्टका-वेश्मनां खण्डान्य्

अष्टाशीतिश् शत-द्वयम्·

Verse 79
Anuṣṭubh

⦿ षट्-सप्ततिस् तु विस्तारे

व्यामा वापि-तटाकयोः

शतं सहस्रं पञ्चाशद्

आयामेन तु पिण्डिताः

Verse 80
Anuṣṭubh

⦿ शर्क्करौघोपल-कृत-

प्राकाराणां समन्ततः

व्यामास् सहस्रे द्वे सप्त

शतानि द्वौ च संख्यया

Verse 81
Anuṣṭubh

⦿ चतुश्शतानि च नव-

त्रिंशश् चात्र विपश्चितः

प्रत्यहं भोजिता राज-

मन्दिरे धर्म्म-धारिणः

Verse 82
Anuṣṭubh

⦿ शतानि नव चाध्येतृ-

वासिनस् सप्ततिस् तथा

चतुश्-शतास् सहस्रन् ते

सर्व्वे नव च पिण्डिताः

Verse 83
Anuṣṭubh

⦿ चैत्राष्टम्यास् समारभ्य

यावत् तत्-पूर्णमी-तितिः

सुवसन्तोत्सव-विधिर्

वंशाराम-जिनागमे

Verse 84
Anuṣṭubh

⦿ वर्षे वर्षे कृतस् तस्या

भगवत्या यथागमम्·

पूर्णं सर्वोपकरणैस्

तत्र याग-द्वयं कृतम्·

Verse 85
Anuṣṭubh

⦿ भगवान् भगवत्यासौ

चतुर्धश्यां प्रदक्षिणम्·

त्रिः कुर्य्यत् पौर्णमस्यञ् च

वीर-शक्त्यादिभिः सुरैः

Verse 86
Anuṣṭubh

⦿ सान्द्रन् ध्वजातपत्राद्यैर्

अम्वरं परितस् तदा

ताड्यमानाखिलातोद्य-

मन्द्र-ध्वनि-मनोहरम्·

Verse 87
Anuṣṭubh

⦿ नर्त्तक्यो नर्त्तकाश् चात्र

नृत्येयुः परितो दिशः

दान-शीलादि-कुशलं

कुर्युस् सर्वे च माणवाः

Verse 88
Anuṣṭubh

⦿ पूजिताश् च त्रि-गुरवस्

सहस्रन् देवतास् तदा

षट् छतानि पुनर् यात्र

देवा नवदशापि च

Verse 89
Anuṣṭubh

⦿ भिक्षु-द्विजाद्या विद्वंसस्

सहस्रन् तत्र भोजिताः

गोभिक्षा एक-नवतिर्

नवाशीत्य्-अङ्गुलीयकाः

Verse 90
Anuṣṭubh

⦿ पिण्डितास् ते पणास् सप्त

तुलितास् तपनीयकम्·

शतं सहस्रं सप्तापि

देव-वस्त्रादिवाससाम्·

Verse 91
Anuṣṭubh

⦿ तिस्रो वृहतिका एकः

कम्वलो नव-विंशतिः

क्षुद्र-वासांसि सार्द्धानि

शाटिकाश् चापि विंशतिः

Verse 92
Anuṣṭubh

⦿ दन्तोपधानम् एकञ् च

दान्तं विचटनन् तथा

अष्टाशीतिस-मुद्गास् तु

सगन्धा एक-दर्प्पणम्·

Verse 93
Anuṣṭubh

⦿ सहस्रञ् चषकाश् श्वेत-

त्रपु षड्विंशतिस् तुलाः

श्रीवास-कृष्णे तु समे

तुले षोडश कट्टिकाः

Verse 94
Anuṣṭubh

⦿ नियुतं पञ्च-षष्टिश् च

सहस्राणि शतानि च

सप्त सिक्थ-प्रदीपानाञ्

चत्वारिंशच् चतुष्टयम्·

Verse 95
Anuṣṭubh

⦿ सहस्रन् द्वे शते भारा

द्वात्रिंशच् च तुले च तत्·

सिक्थञ् चुम्वल-ताम्वूल-

माल्यादीनि यथोचितम्·

Verse 96
Anuṣṭubh

⦿ षट्छता देव-यज्ञादि-

पाक्यास् त्रिंशच् च तन्दुलाः

खार्य्यस् त्रयोदश प्रस्था

व्रीहि-प्रस्थास् तु षोडश

Verse 97
Anuṣṭubh

⦿ सार्द्धास् त्रि-खार्य्यस् सार्द्धैका-

दश प्रस्थास् तिला अपि

मुद्गास् त्रि-खारिका द्रोणः

प्रस्थ-सार्द्धो ऽप्य् अथो घृतम्·

Verse 98
Anuṣṭubh

⦿ घट्यौ च पञ्च प्रस्थाश् च

सार्द्धा द्वे घटिके दधि

प्रस्थाश् चैकादश ततश्

चतुः-प्रस्थाधिकम् पयः

Verse 99
Anuṣṭubh

⦿ सप्त घट्यो मधु गुडो

घट्यौ प्रस्था दशापि च

पादस् त्रिमाषाः कर्पूरस्

तथा विम्व-चतुष्टयम्·

Verse 100
Anuṣṭubh

⦿ एका-दश तरुष्कस्य

पणा अष्टौ पणाः पुनः

नखं पादश् च माषश् च

चतुर्-विम्वन् तु हिङ्गुलम्·

Verse 101
Anuṣṭubh

⦿ चन्दनस्य द्वि-कट्ट्यौ च

त्रि-पणाश् च त्रि-पादकाः

कस् तूरिकाः पणो माषौ

षड्ड् विम्वान्य् अथ तैलकम्·

Verse 102
Anuṣṭubh

⦿ प्रस्थो द्वौ कुदुवौ पादौ

दश कट्ट्यस् तु नागरम्·

गोभिक्षाद्य् अखिलञ् चैतद्

ग्राह्यं कोषान् मही-भृतः

Verse 103
Anuṣṭubh

⦿ राजकोशाद् ग्रहीतव्याः

कल्पनाः प्रति-वत्सरम्·

द्रोणौ द्वौ सप्ततिः खार्य्यस्

तन्दुलानाञ् चतुश्-शताः

Verse 104
Anuṣṭubh

⦿ तिलाष् षड्विंशतिः खार्य्यो

द्रोणः प्रस्थ-चतुष्टयम्·

मुद्गा द्रोणो दश प्रस्थास्

सप्त-त्रिंशच् च खारिकाः

Verse 105
Anuṣṭubh

⦿ घृतं षड्विंशतिर् घट्यो

नव प्रस्थास् ततो दधि

चतुष्-प्रस्थैक-घटिका-

न्यूनं दध्ना समं पयः

Verse 106
Anuṣṭubh

⦿ प्रस्थास् सप्तैक-षष्टिश् च

मधु घट्यो ऽथ षोडश

आढकोना गुडस् तैलं

दश प्रस्था घटीत्रयम्·

Verse 107
Anuṣṭubh

⦿ द्वे सहस्रे पुनस् त्रीणि

शतानि युगलानि तु

तथा सप्तोत्तराशीतिर्

देव-वस्त्रादि-वाससाम्·

Verse 108
Anuṣṭubh

⦿ शय्या वितानानि चतुर्-

विंशतिर् विंशतिः पुनः

उपधानानि षट्-त्रिंशन्

मशकावरणानि च