Study Ancients
Verse 37
Indravajrā

⦿ सो ऽतिष्ठिपच् छ्रीजयमङ्गलार्थ-

देवं तथा श्रीजयकीर्त्तिदेवम्·

मूर्त्तिं गुरोर् दक्षिण-वाम[–][⏓]यष्

षष्टिं शते द्वौ परिवार-देवान्·

Verse 38
Anuṣṭubh

⦿ तस्यास् स-परिवारायाः

पूजाङ्गानि दिने दिने

द्रोणौ पाक्याक्षताः प्रस्थौ

त्रयस्-सप्तति-खारिकाः

Verse 39
Anuṣṭubh

⦿ तिला एका-दश प्रस्था

द्रोणौ द्वौ कुदुवाव् अपि

द्वौ द्रोणौ कुदुवौ मुद्गाः

कङ्कु-प्रस्थाश् चतुर्-दश

Verse 40
Anuṣṭubh

⦿ घृतं घटी त्रि-कुदुवं

दधि-क्षीर-मधूनि तु

अधिकान्य् एकशस् तस्मात्

सप्त-प्रस्थैर् गुडः पुनः

Verse 41
Anuṣṭubh

⦿ घटी प्रस्थौ द्वि-कुदुवौ

तैलं प्रस्थ-त्रयंस् तथा

कुदुवौ द्वौ तरु-फल-

स्नेहस् तु कुदुव-त्रयम्·

Verse 42
Anuṣṭubh

⦿ पूजोपकरणादीनि

फल-शाक-मुखानि तु

नोक्तान्य् अत्र प्रसिद्धत्वाद्

विज्ञेयानि यथोचितम्·

Verse 43
Anuṣṭubh

⦿ देव-वस्त्रादिवस्त्राणां

युगलानि शतानि षट्·

चत्वारिंशच् च युगलान्य्

अध्यर्द्ध-युगले अपि

Verse 44
Anuṣṭubh

⦿ देवता-पाद-विन्यास-

मशकार्थ-प्रसारिताः

चीनांशुकमयाः पञ्च-

चत्वारिंशत् पटा अपि

Verse 45
Anuṣṭubh

⦿ सत्त्राण्य् अध्यापकाध्येतृ-

वासिनां प्रतिवासरम्·

खार्य्यश् चतुर्-द्दश द्रोणः

पञ्च प्रस्थाश् च तन्दुलाः

Verse 46
Anuṣṭubh

⦿ अष्टा-दशोत्सवे प्य् अत्र

सङ्क्रान्ते प्रति-वत्सरम्·

अष्टम्याञ् च चतुर्दश्यां

पञ्चदश्याञ् च पक्षयोः

Verse 47
Anuṣṭubh

⦿ विशिष्टास् तन्दुलाः पाक्याः

खार्य्यः पञ्च-दशाधिकम्·

सहस्रं षष्टिर् अष्टौ च

द्रोणेन सह पिण्डिताः

Verse 48
Anuṣṭubh

⦿ चत्वारिंशत् तिलाः खार्य्यः

खारीभ्यं मुद्गकास् ततः

त्रि-द्रोणैश् चाधिकाः पञ्च-

विंशतिर् घटिका घृतम्·

Verse 49
Anuṣṭubh

⦿ एक-त्रिंशद् दधि-क्षीरे

प्रत्येकं घटिका मधु

एकोन-विंशतिस् तेन

गुडस् तुल्यो ऽथ तैलकम्·

Verse 50
Anuṣṭubh

⦿ कुदुवौ घटिकाः पञ्च-

दशाथाष्ट शतानि च

द्व्यशीतिर् देव-वस्त्रादि-

युगलानि सहस्रकम्·

Verse 51
Anuṣṭubh

⦿ अयुते द्वे सहस्राणि

खार्य्यो ऽष्टौ पाक्य-तन्दुलाः

चत्वारिंशत् तथा द्रोणः

पिण्द्दिताः प्रति-वत्सरम्·

Verse 52
Anuṣṭubh

⦿ नियुतञ् चायुतं द्वे च

सहस्रे व्रीहियश् शतम्·

तदर्था एकषष्टिश् च

सञ्चयाय चतुर्-गुणैः

Verse 53
Anuṣṭubh

⦿ ग्राह्याश् चतुस्-सहस्राणि

ग्रामादिभ्यश् च तन्दुलाः

खरिका नवतिस् तिस्रो

द्रोणो द्वौ कुदुवाव् अपि

Verse 54
Anuṣṭubh

⦿ खार्य्यश् शतं त्रयोशीतिर्

द्रोणौ प्रस्थाश् च षट् तिलाः

मुद्गा द्रोणौ दश प्रस्था

द्वौ च खार्य्यश् शते दश

Verse 55
Anuṣṭubh

⦿ चतुश्-शतानि घटिका

नव प्रस्था घृतं दधी

सप्त प्रस्थास् तथा सप्त

घट्यः पञ्च शतानि च

Verse 56
Anuṣṭubh

⦿ प्रस्थो ऽशीतिष् षट् च घट्यः

पयः पञ्च शतानि च

मधु पञ्च शतान्य् अष्टा-

त्रिंशच् च प्रस्थ-पञ्चकम्·

Verse 57
Anuṣṭubh

⦿ चतुश्-शतानि घटिका

गुडो ऽशीत्य्-उत्तराणि च

अथ त्रयो-दश प्रस्थास्

तैलन् तत्-परिमाणकम्·

Verse 58
Anuṣṭubh

⦿ पञ्च प्रस्थाः पञ्च घट्यस्

स्नेहस् तरु-फलस्य च

तन्तुवाय-गृहाद् ग्रामाद्

अपणादेश् च वाससाम्·

Verse 59
Anuṣṭubh

⦿ युगलानां सहस्राणि

चत्वारिंशच् च पञ्चकम्·

ग्रहीतव्यानि नवतिस्

तथार्द्धं युगलस्य च

Verse 60
Anuṣṭubh

⦿ मधूच्छिष्टस्य भारास् तु

गणिता दश सप्त च

अष्टादश तुलाः पञ्च

कट्ट्यो नव पणास् तथा

Verse 61
Anuṣṭubh

⦿ सीसानाम् एक-पञ्चाशद्

भारा दश तुला अपि

तिस्रश् च कट्टिकैकाश्वो

द्वे दास्यौ द्वौ च दन्तिनौ

Verse 62
Anuṣṭubh

⦿ राज्ञा दत्तास् स्वयन् दत्ता

ग्रामवद्भिश् च भक्तितः

सहस्र-त्रितयं ग्रामाश्

चत्वारिंशत् तथा शतम्·

Verse 63
Anuṣṭubh

⦿ चतुश्-शताः पुमंसो ऽष्टा-

दश चात्राधिकारिणः

द्वि-सहस्रास् सप्त-शताश्

चत्वारिंशच् च कारिणः

Verse 64
Anuṣṭubh

⦿ सहस्रे द्वे शते च द्वा-

त्रिंशच् च परिचारिकाः

योषितास् तासु नर्त्तक्यष्

षट्-छता दश पञ्च च

Verse 65
Anuṣṭubh

⦿ अयुतं द्वि-सहस्राष्

षट्-छताः पिण्डीकृताः पुनः

चत्वारिंशच् च सर्व्वे ते

सार्द्धं तत्-स्थितिदायिभिः

Verse 66
Anuṣṭubh

⦿ षट्-सहस्रास् षडयुताष्

षट्-छताः पञ्च-विंशतिः

स्त्री-पुंसा गणितास् तत्र

देव-पूजानि दायिनः

Verse 67
Anuṣṭubh

⦿ एते सप्तायुताः पिण्डी-

कृता नव-सहस्रकाः

त्रिशता पञ्च-षष्टिश् च

पुकां-चाम्पादिभिस् सह

Verse 68
Anuṣṭubh

⦿ प्रासादादि-करङ्कादि-

कृतस्वर्णानि विंशतिः

अष्टौ भाराश् चतस्रश् च

तुलाः पादौ च कट्टिकाः

Verse 69
Anuṣṭubh

⦿ पञ्च विंशति भाराश् च

रूप्याणां दश पञ्च च

तुला द्वे कट्टिके द्वौ च

पादौ पण-चतुष्टयम्·

Verse 70
Anuṣṭubh

⦿ पञ्च-त्रिंशच् च वज्राणि

मौक्तिक-व्यजन-द्वयम्·

विंशतिष् षट्-छता मुक्तास्

तथायुत-चतुष्टयम्·

Verse 71
Anuṣṭubh

⦿ शतानि पञ्च चत्वारि

सहस्राणि च सङ्ख्यया

चत्वारिंशच् च वैडूर्य्य-

रक्ताश्मादिमभाश्मनाम्·

Verse 72
Anuṣṭubh

⦿ ताम्रस्य तु शतं भारा

विंशतिश् च त्रयो-दश

त्रयो-दश तुलाश् चैका

कट्टी पञ्च पणा अपि